सदस्य:Dr.shreyansh dwivedi

मुक्त ज्ञानकोश विकिपीडिया से
                                      == तोटक छन्द==  
                                                                                                                                                                                                                                                                                                                                                                                                                                                                                  
                                            =छन्द: =
                  छन्द: शास्त्रस्य इतिवृत्तम् मह्त्त्वपूर्णम् अस्ति | छन्द: शास्त्रस्य परम्परायां येषां महद्योगदानं तेषां सर्वेषाम् आचार्याणा विवरणं रामानुजाचार्यस्य गुरुणा   
            श्रीमता यादव प्रकाशेन  एकादश शताब्द्यां पिङ्गलसूत्र इति ग्रन्थस्य समाप्तौ एक:महत्त्वपूर्ण: श्लोक: लिखित:| अस्य श्लोकस्य गङ्गादास प्रणीतायां 
            छन्दोमञ्जर्या: भूमिकायां डॉ० ब्रह्मानन्दत्रिपाठिना प्रयोगो विहित:| यथा- 
                     छन्दो ज्ञानमिदं भवाद्भगवतो लेभे गुरूणां गुरुस्,
                     तस्माद्  दुश्च्यवनस्ततो सुरगुरुर्माण्डव्यनामा तत:l
                     माण्डव्यादपि सैतवस्तत ऋषिर्यास्कस्तत:पिङ्गलस्,
                     तस्येदं यशसा गुरोर्यदि धृतं प्राप्यास्मदद्यै: क्रमात् l l     
छन्द शास्त्रस्य आचार्याणां क्रम: एवमस्ति-  
                                                    
              दुश्च्यवन:(इन्द्र:)               
              शुक्राचार्य:               
              माण्डव्य:              
              सैतव               
              यास्क:              
              पिङ्गल:      
 युधिष्ठिर मीमांसकेन  वैदिक छन्दोमीमांसायाम्  आचार्याणां क्रम: एवं वर्णित:|         
                                                                        
                           == तोटक छन्द==
        छन्द शास्त्र के आचार्य पिंगल के अनुसार इसका लक्षण है- 
                       वद तोटकमब्धिसकारयुतम्
पिङ्गलमतानुसारं यस्य चतुर्षु चरणेषु  चत्वार: सगणा: भवेयु: तत्तोटकं नाम वृत्तम्  |
    इसका उदाहरण निम्नलिखित हैं-
       यमुनातटमच्युतकेलिकला लसदङ्घ्रिसरोरुहसङ्गरुचिम् |
       मुदितोटकलेरपनेतुमघं यदिचेछसि जन्म निजं सफलम् ||
   तोटक वृत्तस्य प्रयोग: शंकराचार्येण बहु कृत: | अस्य छन्दस: गीतं पश्यन्तु-
     प्रतिभाति विकासपरं सततं  श्रमशीलयुतं हरियानमिदम् |
     मनसा वचसा वपुषा व्यतथितान्, मनुजान गणयन्ति विचारपरान् | 
     सहयोगपरं निशि वा दिवसं श्रमशीलयुतं हरियानमिदम्  |  
     प्रतिभाति विकासपरं सततं  श्रमशीलयुतं हरियानमिदम् |१
     रणभूमियुतं कुरुभूमियुतं प्रतिभाति किलोइ शिवायतनम् |
     शिवभूमिरियं गुरुभूमिरियं श्रमशीलयुतं हरियानमिदम्  |२
     नहि कोपि कदापि विकारयुतं नगरं नगरं रमणीयतरम् |
     मनसा क्रियते श्रवणं रमणं श्रमशीलयुतं हरियानमिदम् |३
    भ्रमणं गमनं तनुषा स्नपनं  पठनं क्रयविक्रयणं सततम् |
    करणीयमिदं  निशि वा दिवसं श्रमशीलयुतं हरियानमिदम् |४
    भयमुक्तमिहाचरणं रचितं कृषिकर्मणि वारिविधानकृतम् |
    लघुमनण्डलमाचरितं सुखदं  श्रमशीलयुतं हरियानमिदम् | ५
    युवकानतिवृत्तिपरान्विमुखान्  अभिलक्ष्यमिहाचरणं चरितम् |
    नितरामतियोजनया भरितं  श्रमशीलयुतं हरियानमिदम् |६
  
     अधिराजगृहं नगरं परित:ननु वृत्तिविधानमिहाचरितम् |
    अधिमार्गमिमं  ह्यभितस्तरव: श्रमशीलयुतं हरियानमिदम् |७
   
     अनिलन्नितवाति हि स्वास्थ्यकरं प्रतिधर्म परं हरियानमिदम् |
     यवनेशसिखं ननु हिन्दुमयं  श्रमशीलयुतं हरियानमिदम् |८    
    
    नहि सन्ति विवादपरा मनुजा: हरियानमिदं प्रतिभाभरितम् |
    रणबीरसुतं परिप्राप्यमिदं  श्रमशीलयुतं हरियानमिदम् |९
   
     कथितं मुनिभि:परिपूर्णमिदं हरियान विकासपरं भविता |
     प्रतिभाभरिते प्रमुखे सततं श्रमशीलयुतं हरियानमिदम् |१०
    
      जननाद्धि स्वतन्त्रविचारपरं अनुलोमविलोमपरं ह्यभवत् |
     तपसा नियमेन ह्ययं नृपति: श्रमशीलयुतं हरियानमिदम् |११
      डॉ० श्रेयांश द्विवेदी गुरुग्राम, हरियाणा  चलदूरवाणी ०९७१७३९९१६९