सदस्य:Dr.shreyansh dwivedi
पठन सेटिंग्स
== तोटक छन्द== =छन्द: = छन्द: शास्त्रस्य इतिवृत्तम् मह्त्त्वपूर्णम् अस्ति | छन्द: शास्त्रस्य परम्परायां येषां महद्योगदानं तेषां सर्वेषाम् आचार्याणा विवरणं रामानुजाचार्यस्य गुरुणा श्रीमता यादव प्रकाशेन एकादश शताब्द्यां पिङ्गलसूत्र इति ग्रन्थस्य समाप्तौ एक:महत्त्वपूर्ण: श्लोक: लिखित:| अस्य श्लोकस्य गङ्गादास प्रणीतायां छन्दोमञ्जर्या: भूमिकायां डॉ० ब्रह्मानन्दत्रिपाठिना प्रयोगो विहित:| यथा- छन्दो ज्ञानमिदं भवाद्भगवतो लेभे गुरूणां गुरुस्, तस्माद् दुश्च्यवनस्ततो सुरगुरुर्माण्डव्यनामा तत:l माण्डव्यादपि सैतवस्तत ऋषिर्यास्कस्तत:पिङ्गलस्, तस्येदं यशसा गुरोर्यदि धृतं प्राप्यास्मदद्यै: क्रमात् l l छन्द शास्त्रस्य आचार्याणां क्रम: एवमस्ति- दुश्च्यवन:(इन्द्र:) शुक्राचार्य: माण्डव्य: सैतव यास्क: पिङ्गल:
युधिष्ठिर मीमांसकेन वैदिक छन्दोमीमांसायाम् आचार्याणां क्रम: एवं वर्णित:| == तोटक छन्द==
छन्द शास्त्र के आचार्य पिंगल के अनुसार इसका लक्षण है-
वद तोटकमब्धिसकारयुतम् पिङ्गलमतानुसारं यस्य चतुर्षु चरणेषु चत्वार: सगणा: भवेयु: तत्तोटकं नाम वृत्तम् | इसका उदाहरण निम्नलिखित हैं- यमुनातटमच्युतकेलिकला लसदङ्घ्रिसरोरुहसङ्गरुचिम् | मुदितोटकलेरपनेतुमघं यदिचेछसि जन्म निजं सफलम् ||
तोटक वृत्तस्य प्रयोग: शंकराचार्येण बहु कृत: | अस्य छन्दस: गीतं पश्यन्तु-
प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियानमिदम् |
मनसा वचसा वपुषा व्यतथितान्, मनुजान गणयन्ति विचारपरान् | सहयोगपरं निशि वा दिवसं श्रमशीलयुतं हरियानमिदम् | प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियानमिदम् |१
रणभूमियुतं कुरुभूमियुतं प्रतिभाति किलोइ शिवायतनम् | शिवभूमिरियं गुरुभूमिरियं श्रमशीलयुतं हरियानमिदम् |२
नहि कोपि कदापि विकारयुतं नगरं नगरं रमणीयतरम् | मनसा क्रियते श्रवणं रमणं श्रमशीलयुतं हरियानमिदम् |३
भ्रमणं गमनं तनुषा स्नपनं पठनं क्रयविक्रयणं सततम् | करणीयमिदं निशि वा दिवसं श्रमशीलयुतं हरियानमिदम् |४
भयमुक्तमिहाचरणं रचितं कृषिकर्मणि वारिविधानकृतम् | लघुमनण्डलमाचरितं सुखदं श्रमशीलयुतं हरियानमिदम् | ५
युवकानतिवृत्तिपरान्विमुखान् अभिलक्ष्यमिहाचरणं चरितम् | नितरामतियोजनया भरितं श्रमशीलयुतं हरियानमिदम् |६ अधिराजगृहं नगरं परित:ननु वृत्तिविधानमिहाचरितम् | अधिमार्गमिमं ह्यभितस्तरव: श्रमशीलयुतं हरियानमिदम् |७ अनिलन्नितवाति हि स्वास्थ्यकरं प्रतिधर्म परं हरियानमिदम् | यवनेशसिखं ननु हिन्दुमयं श्रमशीलयुतं हरियानमिदम् |८ नहि सन्ति विवादपरा मनुजा: हरियानमिदं प्रतिभाभरितम् | रणबीरसुतं परिप्राप्यमिदं श्रमशीलयुतं हरियानमिदम् |९ कथितं मुनिभि:परिपूर्णमिदं हरियान विकासपरं भविता | प्रतिभाभरिते प्रमुखे सततं श्रमशीलयुतं हरियानमिदम् |१० जननाद्धि स्वतन्त्रविचारपरं अनुलोमविलोमपरं ह्यभवत् | तपसा नियमेन ह्ययं नृपति: श्रमशीलयुतं हरियानमिदम् |११
डॉ० श्रेयांश द्विवेदी गुरुग्राम, हरियाणा चलदूरवाणी ०९७१७३९९१६९