सदस्य:Snjhalbs/प्रयोगपृष्ठ

मुक्त ज्ञानकोश विकिपीडिया से

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः| (महाभारते वनपर्वणि-३१३/१२८) नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा| (सा.द. अग्निपुराणे) भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः| बुद्धिमत्सु नराः श्रेष्ठाः नरेषु ब्राह्मणाः स्मृताः|| (मनुस्मृतौ- १/९६) आचारहीनं न पुनन्ति वेदाः | (देवीभागवते-११/२/१)--डा.सुन्दर नारायण झा 03:36, 16 अगस्त 2014 (UTC) गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः। गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्। तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥ (स्कन्दपुराणान्तर्गत उत्तरखण्ड, शिवपार्वतीसंवाद, गुरुगीता श्लोक सं०- ३२,३४ एवं ६७

सर्वज्ञानमयो हि सः मनुस्मृति-२/७'

यो यदिच्छति तस्य तत | कठोपनिषद - १/२/१६

यज्ञोपि तस्यै जनतायै कल्पते॥ ऐतरेयब्राह्मणे-१/२/३

आचारहीनं न पुनन्ति वेदाः| देवीभागवते-११/२/१

आचारः परमो धर्मः| मनुस्मृतौ- १/१०८

जनः किलाचारमुचं विगायति|नैषधे-६/२३

गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः| कुर्वन्दुःखप्रतीकारं सुखवन्मन्यते गृही||श्रीमद्भागवते-३/३०/९

सनकं च सनन्दं च सनातनमथात्मभूः| सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतसः||श्रीमद्भागवते-३/१२/४

इतिहासपुराणानि पञ्चमं वेदमीश्वरः| सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः||श्रीमद्भागवते- ३/१२/३९

आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः| स्थापत्यं चास्रुजद्वेदं क्रमात्पूर्वादिभिर्मुखैः|| श्रीमद्भागवते-३/१२/३८--डा.सुन्दर नारायण झा 03:40, 16 अगस्त 2014 (UTC)

               स्वनिर्मिताः श्लोकाः 

शब्दब्रह्मात्मकत्वेन स्तुतो वेदः श्रुतर्षिभिः|षड्भिरंगैर्युतो नित्यं जगत्कल्याणकारकः||१|| अभिज्ञानाय लोकेस्मिन् मुखमेवावलोक्यते| कस्यचित्पुरुषस्यादौ वैमत्यं नात्र कस्यचित्||२||

  पोषणं सर्वगात्राणां मुखेनैवाभिजायते| तस्मान्मुखस्य मुख्यत्वं शास्त्रेषु साधु चर्चितम्||३||
  मुखमग्निस्तु देवानां वेदमन्त्रेषु घोषितः|वेदस्यास्ति मुखं प्रोक्तं व्याकरनमितिस्मृतम्||४||
  वेदवेदाङ्गसङ्कायो विद्यापीठे सुशोभते| परिषत्तस्य चाप्येका पुरातनी प्रतिष्ठिता ||५||
  प्रतिमासं सुविज्ञैस्तु व्याख्यानं तत्र दीयते| सारस्वतेन यज्ञेन सत्रारंभो विधीयते||६||
  सभाध्यक्षाः पदेनात्र सङ्कायप्रमुखा मताः| दैवज्ञप्रवरास्तस्मान्निवेद्यन्ते सभासदैः||७||
  वेदस्य चक्षुरूपेण ज्यौतिषं यत्प्रकीर्तितंम्| तद्विद्यालङ्कृताः प्रेम्णा स्वासन्द्यां विलसन्त्विति||८||

पूर्वाध्यक्षाः विनीतास्तु सागरे वीरवत्स्तुताः| मुख्यातिथिपदं धृत्वा सनाथयन्त्विमां सभाम् ||९|| वेदरक्षार्थमध्येयं व्याकरणं सदा बुधैः| शीर्षकमेनमादाय शब्दशास्त्रविचक्षणाः||१०|| शर्मवर्या निवेद्यन्ते प्रस्तुवन्तु शुभां मतिम्| श्रोष्यन्त्यन्ये सुविद्वांसो व्याख्यानं जञानदायकम्||११||


यज्ञेन देवा जीवन्ति यज्ञेन पितरस्तथा| देवाधीनाः प्रजाः सर्वा यज्ञाधीनाश्च देवताः||

  यज्ञो हि भगवान् विष्णुर्यत्र सर्वं प्रतिष्ठितंम्| यज्ञार्थं पशवः स्रष्टा देवास्त्वौषधयस्तथा||
  यज्ञार्थं पुरुषाः स्रष्टाः स्वयमेव स्वयम्भुवा| यज्ञश्च भूत्यै सर्वस्य तस्माद्यज्ञपरो भवेत्||
  यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषैः| धनं यद्यज्ञशीलानां देवस्वं तं विदुर्बुधाः||
  यज्ञेन सम्यक् पुरुषस्तु नाके सम्पूज्यमानस्त्रिदशैर्महात्मा| प्राप्नोति सौख्यानि महानुभावाः तस्मात्प्रयत्नेन यजेत यज्ञैः|| (विष्णुधर्मोत्तरपुराणे-१६२/१-४,७)--डा.सुन्दर नारायण झा  02:45, 17 अगस्त 2014 (UTC)  

यद्वै किं च मनुरवदत्तद्भेषजम् | तै.ब्रा. २,२,१०,२-३, मै- २,१,५, काठ- ११,५