सदस्य:Drsnjhalbs/प्रयोगपृष्ठ

मुक्त ज्ञानकोश विकिपीडिया से

जगदीशनारायणब्रह्मचर्य्याश्रमस्य स्वरूपम्। यत्कृपालेशमासाद्य मूको वाचस्पतीयति। विद्यागुरुस्तुकौशल्यःसनोलक्षंप्रपूरयेत्॥ श्रीमत्सद्गुरुपादपद्मयुगलं शिष्यैस्सदासेवितं ब्रह्मानन्दमयंप्रसन्नहृदयं वैराग्यसम्पोषकम्। सौभाग्यात्तपसाचगौरवमयं ब्रह्मण्यसन्धायकं साष्टाङ्गंप्रणमामिदिव्यवपुषंश्रीरामसेवोत्सुकम्॥

प्रास्ताविकम्-
  विदितमेवास्ति यन्मिथिलामहीमण्डलान्तर्गतं ब्रह्मचर्य्याश्रममिदं पूज्यपादैरस्माकं गुरुवर्यैर्महतापरिश्रमेणगौतमकपिलादीनामृषिप्रवराणामाश्रमतुल्यं सर्वविधनियमोपनियमं समाश्रित्य सञ्चालितम्। जानन्त्येव भवन्तोभवन्त: यदत्र निवसन्तश्छात्राः प्राचीनानां गुरुकुलनियमानां भिक्षाचरणादीनां सम्यक्परिपालनं कुर्वन्तस्तत्तच्छास्त्राध्ययनसंलग्ना& स्तिस्ठन्तिस्म। साम्प्रतमपि तादृशाः नियमोपनियमाः श्रीहरेरामदासजीमहाराजानां निर्देशने क्वचित्कथञ्चित यथावत्प्रचलन्त्येव नास्त्यत्र केषाञ्चित्लेशतोऽपि सन्देहस्यावसरः। किन्तु वर्त्तमानयुगे परिवर्तितपरिस्थितौ तेषां परमपूज्यानामस्माकं गुरूणामनुपस्थितौ च तत्र समागताः काश्चन तथाविधाः समस्याः] ता एवात्र मुख्यरूपेण विचारणीयाः परिशीलनीयाः संशोधनीयाश्चेति भृशमनुभाव्य किञ्चिन्निवेदयामि।
    विषयेस्मिन्किमप्यधिकं विचारणात्प्रागस्माकं गुरुचरणानां संस्थाविषयकमुद्देश्यमवश्यमेव दृष्टौ निधातव्यम्। यथा वयं जानीमो यत्ते संस्थामिमां वेदवेदाङ्गविषयाणां शिक्षणप्रशिक्षणम्म्नसि निधाय स्थापितवन्त इति। तदर्थमेव सर्वंसंसाधनं तैः कल्पितं न ह्युच्चप्रासादनिर्माणमन्यञ्च भौतिकसुखसाधनादीनां संकलनमासीत्तेषामभिप्रायः। अपितु मिथिलायां वेदविषयस्य प्रचारप्रसारः संस्कृतनिष्ठब्राह्मणानां तपस्विविदुषाञ्च समाजनिर्माणमेवासीत्तेषाम्मुख्यं लक्ष्यमिति मन्ये।
    सहर्षमिदं विज्ञाप्यते यदयमप्यकिञ्चनः तत्रैवाश्रमस्थच्छात्ररूपेण ब्रह्मचारीजीमहाराजानाम्मार्गदर्शने तिष्ठन्तेषाञ्चरणरजप्रभावाद्वेदविषय- मधीत्याधुनामानवत्वमगादिति। यदाऽहं तत्राध्ययनरत आसम्तदानीं तेषां मनसि वेदविद्याविषयकं यच्चिन्तनमासीत्तदनुभूतम्। प्रकरणेऽस्मिन्तत्रत्या मत्समक्षं घटिता एका कथा अविस्मरणीयैव खलु। 1987 तमाब्दीयं कथा सायं काले कश्चिन्महात्मा कुतश्चित्समागतः। रात्रौ भोजनादिकं कृत्वा सर्वे विश्रामायगतवन्तः। प्रातःकाले सर्वैः सहसोऽप्युत्थाय स्नानादिकं कृत्वा यत्तस्य जीवनचर्या आसीत्तदनुसारं दैनन्दिनीं कृत्वा मध्याह्नभोजनादिकं कत्वा पुनः विश्रामं कर्तुं गतः। सायंकाले सरकारः (ब्रह्मचारीजीमहाराजः) तमपृच्छ्त्यद्भवतः किमुद्देश्यम्] स उक्तवान्यदहमत्र स्थित्वा भजनं कर्तुमिच्छामि। महाराजजीप्रोक्तवन्तः यद्भवता किमधीतमिति\ स उक्तवान्यन्नाहं कस्यचिदपि विषयस्य ज्ञाता अस्मि उत महात्मा अस्मि अत्र तपस्तप्तुमिच्छामि। महाराजजी उक्तवन्तः यदत्र तु केवलं विद्वांसश्च्छात्राश्च निवसन्ति नेतरः कश्चिदप्यत्र वासयोग्यः यतो ह्येते छात्राः उच्चस्वरेण वेदपाठं कृत्वा भवतो भजने बाधामुत्पादयिष्यन्ति] अतो भवानितो नातिदूरे कथवारग्रामे गच्छतु तत्र महन्थाना अस्ति तत्रैव भवतोऽभीष्टसिद्धिर्भवितुमर्हति। अत्र तु केवलं छात्राणामध्यापकानां कृते सर्वा व्यवस्थाऽस्तीति।

अनया आख्यायिकया स्पष्टमिदं यत्तेषां संस्थाविषयकं चिन्तनं कीदृशमासीदिति। अत एव मदीयमपि चिन्तनं तथैव वर्तते यदत्र मुख्यरूपेण चतुर्ण्णामपि वेदानामध्ययनव्यवस्था सम्यक्तयाभवेदिति। वेदानामध्ययनाय षडङ्गानामध्ययनमप्यनिवार्यमेव। तत्रापि विशेषेण व्याकरण-ज्योतिषयोः प्राधान्यं भवेत्। वेदवेदाङ्गविषयपाठनाय समर्थाः शिक्षकाश्चापि नियुक्ताः स्युः। तेभ्यश्चाध्यापकेभ्य उचितं निर्धारितं वेतनमपि स्यादेव। वेतननिर्धारणार्थं बिहारसर्वकारद्वारा साम्प्रतं शिक्षकेभ्यो यन्मानदेयं निर्धारितमस्ति तदवश्यमेव भवेद्येन शिक्षकाः धनागमायान्यत्र श्रमं न कुर्युः।

   महोदयाः भवन्तो जानन्त्येव यद्व्याकरणस्याध्ययनं विना नैव सम्यक्शास्त्रबोधो जायते तदुक्तमपि केनचित्- यद्यपि बहुनाधीशे तदपि पठ पुत्र व्याकरणम्। क्रियाकारकसन्धिसमासादीनां सम्यज्ज्ञानं विना नैव शास्त्रप्रवेशः सम्भवः। तस्मात्सर्वविधप्रयत्नेन व्याकरणविषयमवश्यमेव पाठनीयम्। अनुवादरचनाऽप्यावश्यकम्। संस्कृतभारतीमाध्यमेन दशदिवसीयं सम्भाषणशिविरमायोज्यते] आवासीयवर्गाश्चायोज्यन्ते तत्रास्माकं छात्राः प्रविष्टाः स्युः। सौकर्यार्थमाश्रमोपर्येव शिविरवर्गादीनामायोजनं भवेदिति प्रयत्नः करणीयः अस्माभिः।
    सर्वकर्माणि परित्यज्य वेदैकं शरणं व्रजेत् इति विचारो मनसि निधायास्माकं वर्त्तमानोत्तराधिकारिणोऽपि कार्यंकरिष्यन्ति पठन-पाठनव्यवस्थामनुपालयितुं सिद्धाः भविष्यन्ति तदर्थमेव भिक्षाटनं करिष्यन्तीति मन्ये। यद्येवं करिष्यन्ति तर्ह्येवतेऽपि पूज्याः भवितुमर्हन्ति। नो चेदनेके महन्थाः विनष्टाः न केषाञ्चिन्नामस्मरणमपि कश्चित्करोति] तथैवैतेषामपि गतिर्भविष्यतीति।
    अतोऽहमधुना भृशं विनिवेदयामि यत्पूर्वं (सरकारस्योपस्थितिकाले) ये नियमाः याश्च व्यवस्था आसन्त एव नियमास्ता एव व्यवस्थाः साम्प्रतमपि भवन्तु। तदर्थं तदानीन्तने यानि साधनान्यासन्न तानि तथावदधुना कार्यं कर्तुं शक्नुवन्ति तस्मात्साधनानि वर्धनीयानि। संसाधनवर्धनायाश्रमस्य शिष्यैः स्नातकैश्च सम्पर्को विधेयः। आश्रमस्थशिक्षणव्यवस्थाविषये सर्वप्रथमं चिन्तनमावश्यकमस्ति। एतत्कार्यं सर्वानपि आश्रमशिष्यानाकर्षयिष्यतीत्यहं मन्ये। एकवारमाकर्षणं भवेत्तदानीमन्यानि कार्याणि स्वयमेव सुलभानि भविष्यन्ति। परञ्च कार्यमिमं विहाय नान्यत्किमपि कार्यमस्माकमुत्कर्षाय सहायकं भवितुमर्हतीत्यपि सत्यमेव।
   यथा भवन्तो जानन्ति यदधुनापि भिक्षाटनं भवत्येव] अन्न्सङ्ग्रहणाय ग्रामे ग्रामे महाराजजी गच्छन्त्येव] धनागमोऽपि भवत्येव] किन्तु एकमेव कार्यं तत्र न भवति अध्ययनाध्यापनम्। विषयेस्मिन्महाराजजीनामनुष्णाशीतत्वमनुभूयत एव।
   अन्येऽपि विषयाः सन्ति चिन्त्याः यथा सरकारकाले यद्धनसङ्ग्रहो भवतिस्म तस्मिन्विषये सर्वेषां चिन्तनमिदमासीद्यत्ते आश्रमीयव्यस्थायैव सर्वं कुर्वन्ति] यतस्तेषां गृहजनाः तैस्सह सम्पृक्ताः नासन्] अर्थात्सरकारसविधे तेषामावागमनं नासीत्परं वर्त्तमानमहाराजजीनां विषये तथा चिन्तनं सामान्यजनानां नास्ति। यतोहि एतेषाम्महराजजीनां परिवारजना अत्रागच्छन्ति सम्भवति यत्ते आश्रमधनस्य प्रयोगः स्वपरिवारजनानामुपकाराय कुर्वन्तो भविष्यन्ति। यतस्त्वाश्रमव्यवस्थाऽपि समृद्धो न दृश्यते धनसङ्ग्रणमन्नसङ्ग्रहणभिक्षाटनादिकन्तु पूर्ववदेव प्रचलदस्ति] तस्मात्कालादधुना आश्रमस्थविद्यार्थीनां सङ्ख्यापि न्यूना एव तर्हि कथमेतादृशी अव्यवस्था समुत्पन्नेति?।
   अतो यद्धनसङ्ग्रहो भवति तस्य समस्तस्याप्यायव्ययस्य लिखितं विवरणं भवेद्येन कोऽपि कदाचिदपि सर्वमवगन्तुं प्रभवेत्प्रश्नो न तिष्ठेत्। एतत्सर्वं कर्तुं तत्रत्या एव जनाः समुपयुक्ताः भवितुमर्हन्ति। मादृशानां बहिःस्थानां समितिसदस्यत्वेन नामाङ्कनं नोचितम्। वर्षमध्ये दिनद्वयमवलोकनेन नैवाश्रमव्यवस्थां समुचितं कर्तुं शक्यत इति मदीयो विचारः। अग्रे भवन्तस्सर्वे विद्वाँस एव यदुचितं तच्चिन्तयन्त्विति।

परब्रह्मतल्लीनानां पूज्यपादचरणानां सरकारमहोदयानां स्मृतिग्रन्थमेकं प्रकाशमानयनार्थमप्यस्माकं चिन्तनमवश्यमेव भवेत्। यतोहि तेषां बह्ब्योऽपि गाथाः सन्ति याः सर्वजनेषु प्रसिद्धाः न दृश्यन्ते। काश्चिदहं जानामि काश्चिच्चान्ये जानन्ति। तासां सर्वासामपि कथानां संकलनं तदैव सम्भवति यदा सर्वे स्वस्मात्स्मरणात्किमपि किमपि तथ्यमुद्घाट्य प्रदास्यन्ति। तासां सर्वासां कथानकानां सङ्ग्रहो भविष्यति येन सरकारविषयकं सर्वमपि ज्ञाताज्ञाततथ्यं सर्वप्रसिद्धं भविष्यति। वस्तुतो महापुरुषाणां जीवनीमधीत्य जनाः स्वजीवने परिवर्तनं कर्तुं क्षमा भवन्ति अत एव प्रारम्भिककक्षास्वपि महात्मागान्धि-नेहरू-राजेन्द्रप्रसाद-विवेकानन्दादीनां सत्पुरुषाणां जीवनी पाठ्यक्रमे संयोज्यते पाठ्यते च। अत एत|दृशानाम्महर्षीणां जीवनवृत्तमवश्यमेव प्रकाशितं भवेद्येन भारतवर्षस्य सामान्यजनाः सुपरिचिताः भविष्यन्तीति।

    एतद्ग्रन्थप्रकाशनायैका समितिर्भवेत् तस्यां समितौ ये सदस्याः सन्तु ते कार्यमिमं निष्ठापूर्वकं सम्पादयन्तु।
                                         विदुषामनुचरः-
                                    (रामसुन्दरदासः)
                                  विद्यावाचस्पति:डॉ0 सुन्दरनारायणझाः

सहायकाचार्यः] वेदविभागे] श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्] बी-4]कुतुबसांस्थानिकक्षेत्रम्]नवदेहली-110016

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः। गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्। तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥ (स्कन्दपुराणान्तर्गत उत्तरखण्ड, शिवपार्वतीसंवाद, गुरुगीता श्लोक सं०- ३२,३४ एवं ६७

सर्वज्ञानमयो हि सः मनुस्मृति-२/७'

यो यदिच्छति तस्य तत | कठोपनिषद - १/२/१६

यज्ञोपि तस्यै जनतायै कल्पते॥ ऐतरेयब्राह्मणे-१/२/३

आचारहीनं न पुनन्ति वेदाः| देवीभागवते-११/२/१

आचारः परमो धर्मः| मनुस्मृतौ- १/१०८

जनः किलाचारमुचं विगायति|नैषधे-६/२३

गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः| कुर्वन्दुःखप्रतीकारं सुखवन्मन्यते गृही||श्रीमद्भागवते-३/३०/९

सनकं च सनन्दं च सनातनमथात्मभूः| सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतसः||श्रीमद्भागवते-३/१२/४

इतिहासपुराणानि पञ्चमं वेदमीश्वरः| सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः||श्रीमद्भागवते- ३/१२/३९

आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः| स्थापत्यं चास्रुजद्वेदं क्रमात्पूर्वादिभिर्मुखैः|| श्रीमद्भागवते-३/१२/३८

यस्य देवस्य यद्रूपं यथा भूषणवाहनम्| तद्वदेव हि तच्चक्तिरसुरान्योद्धुमाययौ|| दुर्गाशप्तशती- ८/१४

देवदानवयक्षाणां पिशाचोरगरक्षसाम्| पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत|| वा.रा.युद्धकाण्डे १०७/६५

नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम् | रामरावणयोर्युद्धं विराममुपगच्छति || वा.रा.युद्धकाण्डे १०७/६६

अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी | कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः || वा. रा. युद्धकाण्डे- ९२/

अनन्ता वै विश्वेदेवाः (बृहदारण्यकोपनिषदि - ३/१/९ )