सदस्य:Astro Akpandey/प्रयोगपृष्ठ

मुक्त ज्ञानकोश विकिपीडिया से
                                दशा विचारः    

अभय कुमार पाण्डेय लखनऊ परिसर ज्योतिष विभाग 9450537461

दश्यते परिमीयते इति दशा ।अर्थात् दशा कालखण्डस्यैवापरनाम इति । मानवजीनस्य सम्पूर्णजीवनकाले कानिचिद् प्रमुखकालखण्डानि भवन्ति, कानिचिद् अन्तर-प्रत्यन्तरकालखण्डानि च जायन्ते । समेषां सम्बन्धः विभाजनाधारेण सूक्ष्मातिसूक्ष्ममानवजीवनोपयोगिकालस्य शुभाशुभत्वनिर्धारणं वर्तते । आचार्यवैद्यनाथेन प्रोक्तं- यथा जगतः वर्गविभाजनेन गणना सरलतया सम्भवते, तथैव मानवजीवने दशानुशारेण सर्वफलं ज्ञायते । यथा-

                            1दशाफलं सर्वफलं नराणां वर्णानुसारेण यथा विभागः ।।(जा.पारि.18/12)

यद्दापि दशा विचारविषये सर्वाधिकं सयुक्तिकं सप्रमाणं च विवरणम् आचार्य पराशरेण प्रतिपादितम्। तत्र वह्विनां दशानां गणना साधनपद्धतिः तत्फलञ्च प्रतिपादितं वर्तते । तत्रोक्तं सर्वासु मुख्यादशा विशोतरी वर्तते या एका विशिष्ट प्रक्रिया नक्षत्राश्रिता प्रतिक्षण फलदा च वर्तते । महर्षिपराशरः द्विपञ्चाशत् दशा वर्णिताः परञ्च मुख्यतया त्रीविधाः भवन्ति । यथा - विंशोत्तरी , अष्टोत्तरी , योगिनी ।

  2दशा विंशोतरी चात्र गाह्यानाष्टोतरी मता ।।(बृ.पा.)

अष्टोतरी , विंशोत्तरी , योगिनी इत्येव बहुप्रकारकः दशाविचारः भारतीयज्योतिषशास्त्रे उपलब्धते ।ग्रहाणांशुभाशुभसमयज्ञानार्थं दशानिर्धारणं क्रियते ।एतेषां दशानां समान्यपरिचयः अधस्तात् प्रस्तूयते । विंशोत्तरी-- विंशोत्तरीदशाक्रमे सर्वेषां ग्रहाणां भोगकालःपूर्णतया 120 वर्षात्मको भवति । तत्र सूर्यस्य 6 वर्षाणि , चन्द्रमायाः 10 वर्षाणि , भौमस्य 7 वर्षाणि , राहोः 18 वर्षाणि , बृहस्पतेः 16 वर्षाणि , शनेः 19 वर्षाणि , बुधस्य 17 वर्षाणि , केतोः7 वर्षाणि ,शुक्रस्य 20 वर्षाणि दशाकालः प्रोक्ताः । जन्मनक्षत्रधारेण ग्रहाणां दशा अधोलिखिप्रकारेण भवति ।यथा-- ग्रहाः सूर्यः चन्द्रः भौमः राहुः गुरुः शनिः बुधः केतुः शुक्रः दशाकालः 6 10 7 18 16 19 17 7 20 नक्षत्राणि कृ. उ.फा. उ.षा. रो. ह. श्र. मृ . चि. ध. आर्द्रा स्वा. शत् पुन. वि. पू.भा. पुष्य. अनु उ.भा आश्ले ज्ये . रे . म. मू . अश्वि . भ. पू. भा. पू. षा. सर्वेषु ग्रहेषु क्रमशः सुर्य-चन्द्र-भौम-राहु-गुरु-शनि-बुध-केतु-शुक्राणाम् अन्तर्दशाः भवन्ति ।यस्मिन् ग्रहे यस्य ग्रहस्यान्तर्दशा भवति ,तयो परस्परं गुणनेन यत्फलं प्राप्यते , तेन दशसंख्याः भागःक्रियते चत्तहि लब्धं फलं मासः, शेषेण3 संख्यायाः गुणनफलं दिनं भवति । यथा - सुर्यमहादशायां सूर्यान्तरदशावर्षं =6 * 6 = 36 / 10 = 3मासाः, शिष्टं 6 । 6 * 30 / 10 = 18 दिनानि च । एवमेव अन्येषां ग्रहाणां द्रष्टव्यम् । यथा प्रत्येकं ग्रहस्य महादशां नवग्रहाणामन्तर्दशा भवति , तथैव अन्तर्दशामपि प्रत्यन्तरदशाः भवन्ति ।यथा सूर्यस्य महादशां सूर्यस्यन्तर्दशा, तस्या च पुनः सूर्यस्यप्रत्यन्तर्दशा ।प्रत्यन्तर्दशाकालपाप्तयर्थं महादशावर्षम* अन्तर्दशावर्षम् * प्रत्यन्तर्दशावर्षम् / 40 = प्रत्यन्तरदशादिनानिः । उदाहरणं यथा-- सूर्यस्यमहादशायां चन्द्रन्तर्दशायां च सूर्यस्य प्रत्यन्तरदशा = 6 * 10 = 60 * 6 = 360 / 40 = 9 दिनानि । एवमेव सूर्यमहादशायां सूर्यान्तर्दशां च सूर्यप्रत्यन्तरदशाकालः 5 दिनानि 18 घट्यः। चन्द्रप्रत्यन्तरकालः 9 दिनानि । भौमप्रत्यन्तरकालः 6 दिनानि 18 घट्यः । राहोः 16 दिनानि 12 घट्यः। गुरोः 14 दिनानि 24 घट्यः। शनेः 17 दिनानि 6 घट्यः । बुधस्य15 दिनानि 18 घट्यः । केतोः 6 दिनानि 18 घट्यः । शुक्रस्य 18 दिनानि । अष्टोत्तरीदशा – दक्षिणभारते अष्टोतरीदशायाः विशिष्टप्रचारो वर्तते । स्वरशास्त्रे उच्यते यत् यस्य जन्म शुक्लपक्षे भवति तस्य अष्टोतरीदशया , यस्य च कृष्णपक्षे तस्य विंशोत्तरी दशया शुभाशुभफलविचारः करणीयः । अष्टोत्तरीदशायां ग्रहाणां सम्पूर्णभोगकालः 108 वर्षाणि भवन्ति । तस्य चक्रमधोलिखितप्रकारेण वर्तते । यथा – ग्रहाः सूर्यः चन्द्रः भौमः बुधः शनिः गुरुः राहुः शुक्रः दशाकालः 6 15 8 17 10 19 12 21 नक्षत्राणि आर्द्रा पुनर्वसु पुष्य अश्लेषा मघा पू. फा. उ. फा. हस्त चित्रा

स्वाति

विशा अनु ज्येष्ठा मूल पू. षा. उ. षा. अभि श्रवण धनि शत पू. भा. उ. भा. रेवती अश्विनी भरणी कृतिका रोहिणी मृगशिरा


जातकः यदा कस्यचिदपि  योगस्योपलब्धिः करोति, तदा तस्य योगस्य शुभाशुभफलं कदा भविष्यतीति निर्धारणं दशामाध्यमेनैव सम्भवते । यतो हि दशाफलस्य योगस्य वा कालसूचकःअस्ति । यथोक्तं कुम्भगते शनौ पञ्मभावे पञ्चपुत्राः भवन्ति परञ्च तेषाम् उपलब्धिः कदा भविष्यतीति , प्रश्ने दशाज्ञानं परमावश्यकं भवति ज्योतिषकालगणनायाम् । अतः अश्माकं पूर्वजमहर्षिभिः प्रतिपादितः विधिः अतिवचमत्कारी वैज्ञानिकी च वर्तते ।

मानवस्य परमायुः विशत्यधिकशतवर्षं प्रकल्प्य नवग्रहधारेण एका विशिष्टप्रक्रियया दशाब्दसंख्या प्रतिपादिता वर्तते ।तत्र कश्चन दशवर्षाणि यावत् , कश्चन अष्टादशवर्षं यावत् तिष्ठति । एवं पञ्चधा विभक्तः परमायुः एका सरणिद्धपरम्परया दृश्यते ।तद्विभागस्य नाम महादशा इत्युच्यते यत् दशा वर्षात्मकमाने विभाजितं वर्तते । पुनः नवग्रहाणां महादशावर्षप्रमाणान्तर्गतं लघुदशा(अन्तर्दशा) भवति । यतो हि दशावर्षे एकोनविंशति वर्षे बहु चक्र परिवर्तनं दृश्यते । यत्र कालखण्डान्यपि बहुनि गच्छन्ति । एवं दशा प्रमुखत्वं पञ्चधा विभक्ता वर्तते ।सा महादशा अन्तर्दशा प्रत्यन्तर्दशा सुक्ष्मदशा प्राणदशा च विश्रुता वर्तते ।



संदर्भ ग्रंथानाम् सूची -

   1. जातकतत्वम्
   2. जातकालंकार
   3. (जा.पारि.18/12)
   4. .(बृ.पा.)
   5.  ज्योतिर्निबन्धादर्श  इत्यादयः